|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.19. अध्यायः 019
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-19-0x(4867)(55779)
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून्।
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्॥ 8-19-1(55780)
तमापतन्तं सहसा तव पुत्रं महारथम्।
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत्॥ 8-19-2(55781)
स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः।
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्॥ 8-19-3(55782)
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान्।
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान्॥ 8-19-4(55783)
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः।
पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत्॥ 8-19-5(55784)
षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम्।
अष्टमेन तथा खङ्गं पातयामास भूतले।
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्॥ 8-19-6(55785)
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव।
उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत॥ 8-19-7(55786)
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः।
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम्॥ 8-19-8(55787)
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्।
अन्वयुः समरे राजंस्ततो युद्धमवर्तत॥ 8-19-9(55788)
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे॥ 8-19-10(55789)
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते।
यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह॥ 8-19-11(55790)
नरा नरैः समाजग्मुर्वारणा वरवारणैः।
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः॥ 8-19-12(55791)
द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे।
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च॥ 8-19-13(55792)
ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च।
अयुध्यन्त महावेगाः परस्परवधैषिणः॥ 8-19-14(55793)
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः।
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन॥ 8-19-15(55794)
मुहूर्तमेव तद्युद्वमासीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत॥ 8-19-16(55795)
रथी नागं समासाद्य दारयन्निशितैः शरैः।
प्रेषयामास कालाय शरैः सन्नतपर्वभिः॥ 8-19-17(55796)
नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे।
दारयामासुरत्युग्रं तत्रतत्र तदातदा॥ 8-19-18(55797)
हयारोहाश्च बहवः परिवार्य हयोत्तमान्।
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः॥ 8-19-19(55798)
धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान्।
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः॥ 8-19-20(55799)
विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः।
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्॥ 8-19-21(55800)
साश्वारोहांश्च तुरगान्विषामैर्विव्यधू रुषा।
अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा॥ 8-19-22(55801)
पादातैराहता नागा विवरेषु समन्ततः।
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश॥ 8-19-23(55802)
पदातीनां तु सहसा प्रद्रुतानां महाहवे।
उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे॥ 8-19-24(55803)
निमित्तं मन्यमानास्तु परिणाम्य महागजाः।
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च॥ 8-19-25(55804)
तांस्तु तत्र प्रसक्तान्वै परिन्वार्य पदातयः।
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः॥ 8-19-26(55805)
अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे।
निपतन्तो विषाणाग्रैर्भृशं विद्वाः सुशिक्षितैः॥ 8-19-27(55806)
अपरे सहसा गृह्य विषाणैरेव सूदिताः।
सेनान्तरं समासाद्य केचित्तत्र महागजैः॥ 8-19-28(55807)
क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः।
अपरे व्यजनानीव विभ्राम्य निहता मृधे॥ 8-19-29(55808)
पुरःसराश्च नागानामपरेषां विशाम्पते।
शरीराण्यतिविद्वानि तत्रतत्र रणाजिरे॥ 8-19-30(55809)
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे।
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः॥ 8-19-31(55810)
निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः।
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि॥ 8-19-32(55811)
सहयाः सादिनस्तत्र तोमरेण महामृधे।
भूमावमृद्रन्वेगेन सचर्माणं पदातिनम्॥ 8-19-33(55812)
चछा सावरणान्कांश्चित्तत्रतत्र विशाम्पते।
रथान्नागाः समासाद्य परिगृह्य च मारिष।
व्याक्षिपन्सहसा तत्र घोररूपे भयानके॥ 8-19-34(55813)
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः।
पर्वतस्येव शिखरं वज्ररुग्णं महीतले॥ 8-19-35(55814)
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि।
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह॥ 8-19-36(55815)
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले।
पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः॥ 8-19-37(55816)
पततश्चापरो राजन्विजहारासिना शिरः।
`मृतमन्यो महाराज पदा ताडितवांस्तदा'॥ 8-19-38(55817)
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्।
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत।
तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम्॥ 8-19-39(55818)
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः।
जहार समरे प्राणान्नानाशस्तैरनेकधा॥ 8-19-40(55819)
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले।
कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः॥ 8-19-41(55820)
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च।
महारागानुरक्तानि वस्त्राणीव चकाशिरे॥ 8-19-42(55821)
एवमेतन्महद्युद्वं दारुणं शस्त्रसङ्कुलम्।
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत्॥ 8-19-43(55822)
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः।
योद्वव्यमिति युध्यन्ते राजानो जयगृद्विनः॥ 8-19-44(55823)
स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान्।
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत॥ 8-19-45(55824)
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः।
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः॥ 8-19-46(55825)
अगम्यरूपा पृथिवी क्षणेन समपद्यत।
क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी॥ 8-19-47(55826)
पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः।
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः॥ 8-19-48(55827)
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः।
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः॥ ॥ 8-19-49(55828)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकोनविंशोऽध्यायः॥ 19 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-19-24 आभरणमववव्रुः अवगत्य वृतवन्तः॥ 8-19-25 निमित्तं जयहेतुम्। महान्ता गजा येषां ते महागजा गजारोहा जगृहुर्हस्तिभिर्ग्राहयामासुः। परिणाम्य हस्तिनमिति शेषः। बिभि दुश्च शत्रून्गजैरेव॥ 8-19-31 प्रतिमानेषु गजदन्तान्तरालेषु। प्रासैः कुम्भेषु तोमरैर्दन्तवेष्टेषु शक्तिमिश्च निगृहीताः। प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोरिति मेदिनी॥ 8-19-19 एकोनविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|